Wednesday, 6 November 2013

All mantra that to be recite with Rudra abhishekam

  1  Shri Rudram Laghunyasam-
ॐ अथात्मानग्ं शिवात्मानग् श्री रुद्ररूपं ध्यायेत् ॥
शुद्धस्फटिक सङ्काशं त्रिनेत्रं पञ्च वक्त्रकम् ।
गङ्गाधरं दशभुजं सर्वाभरण भूषितम् ॥
नीलग्रीवं शशाङ्काङ्कं नाग यज्ञोप वीतिनम् ।
व्याघ्र चर्मोत्तरीयं च वरेण्यमभय प्रदम् ॥
कमण्डल्-वक्ष सूत्राणां धारिणं शूलपाणिनम् ।
ज्वलन्तं पिङ्गलजटा शिखा मुद्द्योत धारिणम् ॥
वृष स्कन्ध समारूढम् उमा देहार्थ धारिणम् ।
अमृतेनाप्लुतं शान्तं दिव्यभोग समन्वितम् ॥
दिग्देवता समायुक्तं सुरासुर नमस्कृतम् ।
नित्यं च शाश्वतं शुद्धं ध्रुव-मक्षर-मव्ययम् ।
सर्व व्यापिन-मीशानं रुद्रं वै विश्वरूपिणम् ।
एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत् ॥
अथातो रुद्र स्नानार्चनाभिषेक विधिं व्या॓क्ष्यास्यामः । आदित एव तीर्थे स्नात्वा उदेत्य शुचिः प्रयतो ब्रह्मचारी शुक्लवासा देवाभिमुखः स्थित्वा आत्मनि देवताः स्थापयेत् ॥
प्रजनने ब्रह्मा तिष्ठतु । पादयोर्-विष्णुस्तिष्ठतु । हस्तयोर्-हरस्तिष्ठतु । बाह्वोरिन्द्रस्तिष्टतु । जठरे‌உअग्निस्तिष्ठतु । हृद॑ये शिवस्तिष्ठतु । कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु । नासिकयोर्-वायुस्तिष्ठतु । नयनयोश्-चन्द्रादित्यौ तिष्टेताम् । कर्णयोरश्विनौ तिष्टेताम् । ललाटे रुद्रास्तिष्ठन्तु । मूर्थ्न्यादित्यास्तिष्ठन्तु । शिरसि महादेवस्तिष्ठतु । शिखायां वामदेवास्तिष्ठतु । पृष्ठे पिनाकी तिष्ठतु । पुरतः शूली तिष्ठतु । पार्श्ययोः शिवाशङ्करौ तिष्ठेताम् । सर्वतो वायुस्तिष्ठतु । ततो बहिः सर्वतो‌உग्निर्-ज्वालामाला-परिवृतस्तिष्ठतु । सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु । माग्ं रक्षन्तु ।
अ॒ग्निर्मे॑ वा॒चि श्रि॒तः । वाग्धृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि ।
वा॒युर्मे॓ प्रा॒णे श्रि॒तः । प्रा॒णो हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । सूर्यो॑ मे॒ चक्षुषि श्रि॒तः । चक्षु॒र्-हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः । मनो॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । दिशो॑ मे॒ श्रोत्रे॓ श्रि॒ताः । श्रोत्र॒ग्॒ं॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । आपोमे॒ रेतसि श्रि॒ताः । रेतो हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ताः । शरी॑र॒ग्॒ं॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । ओ॒ष॒धि॒ व॒न॒स्पतयो॑ मे॒ लोम॑सु श्रि॒ताः । लोमा॑नि॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । इन्द्रो॑ मे॒ बले॓ श्रि॒तः । बल॒ग्॒ं॒ हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । प॒र्जन्यो॑ मे॒ मू॒र्द्नि श्रि॒तः । मू॒र्धा हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । ईशा॑नो मे॒ म॒न्यौ श्रि॒तः । म॒न्युर्-हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः । आ॒त्मा हृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम॒मृते॓ । अ॒मृतं॒ ब्रह्म॑णि । पुन॑र्म आ॒त्मा पुन॒रायु॒ रागा॓त् । पुनः॑ प्रा॒णः पुन॒राकू॑त॒मागा॓त् । वै॒श्वा॒न॒रो र॒श्मिभि॑र्-वावृधा॒नः । अ॒न्तस्ति॑ष्ठ॒त्वमृत॑स्य गो॒पाः ॥
अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य, अघोर ऋषिः, अनुष्टुप् चन्दः, सङ्कर्षण मूर्ति स्वरूपो यो‌உसावादित्यः परमपुरुषः स एष रुद्रो देवता । नमः शिवायेति बीजम् । शिवतरायेति शक्तिः । महादेवायेति कीलकम् । श्री साम्ब सदाशिव प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः । दर्शपूर्ण मासात्मने तर्जनीभ्यां नमः । चातुर्-मास्यात्मने मध्यमाभ्यां नमः । निरूढ पशुबन्धात्मने अनामिकाभ्यां नमः । ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः । सर्वक्रत्वात्मने करतल करपृष्ठाभ्यां नमः ॥
अग्निहोत्रात्मने हृदयाय नमः । दर्शपूर्ण मासात्मने शिरसे स्वाहा । चातुर्-मास्यात्मने शिखायै वषट् । निरूढ पशुबन्धात्मने कवचाय हुम् । ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् । सर्वक्रत्वात्मने अस्त्रायफट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
आपाताल-नभःस्थलान्त-भुवन-ब्रह्माण्ड-माविस्फुरत्- 
ज्योतिः स्फाटिक-लिङ्ग-मौलि-विलसत्-पूर्णेन्दु-वान्तामृतैः ।
अस्तोकाप्लुत-मेक-मीश-मनिशं रुद्रानु-वाकाञ्जपन्
ध्याये-दीप्सित-सिद्धये ध्रुवपदं विप्रो‌உभिषिञ्चे-च्चिवम् ॥
ब्रह्माण्ड व्याप्तदेहा भसित हिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाः कलित-शशिकला-श्चण्ड कोदण्ड हस्ताः ।
त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्त-प्रकटितविभवा नः प्रयच्चन्तु सौख्यम् ॥
ॐ ग॒णाना॓म् त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पद॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ महागणपतये॒ नमः ॥
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मे‌உनुका॒मश्च॑ मे॒ काम॑श्च मे सौमनस॒श्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे स॒ंविच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒‌உमृतं॑ च मे‌உय॒क्ष्मं च॒ मे‌உना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मे‌உनमि॒त्रं च॒ मे‌உभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे॒ सु॒दिनं॑ च मे ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
2  Rudram Namkam-
श्री रुद्र प्रश्नः
कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
चतुर्थं वैश्वदेवं काण्डम् पञ्चमः प्रपाठकः
ॐ नमो भगवते॑ रुद्राय ॥
नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑ । नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ । या त॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑ । शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय । या ते॑ रुद्र शि॒वा त॒नूरघो॒रा‌உपा॑पकाशिनी । तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि । यामिषुं॑ गिरिशन्त॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिग्ं॑सीः॒ पुरु॑षं॒ जग॑त्। शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑वदामसि । यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मग्ं सु॒मना॒ अस॑त् । अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् । अहीग्॑‍श्च॒ सर्वां॓ज॒म्भय॒न्त्सर्वा॓श्च यातुधा॒न्यः॑ । अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑ । ये चे॒माग्ं रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शो‌உवैषा॒ग्॒ं॒ हेड॑ ईमहे । अ॒सौ यो॑‌உवसर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश॒न्-नदृ॑शन्-नुदहा॒र्यः॑ । उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः । नमो॑ अस्तु नील॑ग्रीवाय सहस्रा॒क्षाय॒ मी॒ढुषे॓ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒‌உहं तेभ्यो॑‌உकर॒न्नमः॑ । प्रमुं॑च॒ धन्व॑न॒स्-त्व॒मु॒भयो॒रार्त्नि॑ यो॒र्ज्याम् । याश्च ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप । अ॒व॒तत्य॒ धनु॒स्त्वग्ं सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव । विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाग्म् उ॒त । अने॑श॒न्-नस्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑ । या ते॑ हे॒तिर्-मी॑डुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ । तया॒‌உस्मान्, वि॒श्वत॒स्-त्वम॑य॒क्ष्मया॒ परि॑ब्भुज । नम॑स्ते अ॒स्त्वायुधा॒याना॑तताय धृ॒ष्णवे॓ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने । परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्-वृ॑णक्तु वि॒श्वतः॑ । अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ॥ 1 ॥
शम्भ॑वे॒ नमः॑ । नम॑स्ते अस्तु भगवन्-विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यम्ब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑ कालाग्निरु॒द्राय॑ नील॒कण्ठाय॑ मृत्युञ्ज॒याय॑ सर्वेश्व॑राय॑ सदाशि॒वाय॑ श्रीमन्-महादे॒वाय॒ नमः॑ ॥
नमो॒ हिर॑ण्य बाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नमः॑ स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॑ बभ्लु॒शाय॑ विव्या॒धिने‌உन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒विने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नमः॑ सू॒तायाहं॑त्याय॒ वना॑नां॒ पत॑ये॒ नमो॒ नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒ता-यौष॑धीनां॒ पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्-घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमो॒ नमः॑ कृत्स्नवी॒ताय॒ धाव॑ते॒ सत्त्व॑नां॒ पत॑ये॒ नमः॑ ॥ 2 ॥
नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये नमो॒ नमः॑ ककु॒भाय॑ निष॒ङ्गिणे॓ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॑ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमो॒ नमः॑ सृका॒विभ्यो॒ जिघाग्ं॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑‌உसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यः प्रकृ॒न्तानां॒ पत॑ये॒ नमो॒ नम॑ उष्णी॒षिने॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॒ इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च वो॒ नमो॒ नम॑ आतन्-वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॒॑द्भ्यो विसृ॒जद्-भ्य॑श्च वो॒ नमो॒ नमो‌உस्स॑द्भ्यो॒ विद्य॑द्-भ्यश्च वो॒ नमो॒ नम॒ आसी॑नेभ्यः॒ शया॑नेभ्यश्च वो॒ नमो॒ नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्-भ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्-भ्यश्च वो॒ नमो॒ नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमो॒ अश्वे॒भ्यो‌உश्व॑पतिभ्यश्च वो॒ नमः॑ ॥ 3 ॥
नम॑ आव्या॒धिनी॓भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृगं-ह॒तीभ्यश्च॑ वो॒ नमो॒ नमो॑ गृ॒त्सेभ्यो॑ गृ॒त्सप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॓भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमो॒ नमो॑ मह॒द्भ्यः॑, क्षुल्ल॒केभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॒‌உर॒थेभ्य॑श्च वो॒ नमो॒ नमो॒ रथे॓भ्यो॒ रथ॑पतिभ्यश्च वो॒ नमो॒ नमः॑ सेना॓भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमः॑, क्ष॒त्तृभ्यः॑ सङ्ग्रही॒तृभ्य॑श्च वो॒ नमो॒ नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॑ नमः॒ कुला॑लेभ्यः क॒र्मारे॓भ्यश्च वो॒ नमो॒ नमः॑ पु॒ञ्जिष्टे॓भ्यो निषा॒देभ्य॑श्च वो॒ नमो॒ नमः॑ इषु॒कृद्भ्यो॑ धन्व॒कृद्-भ्य॑श्च वो॒ नमो॒ नमो॑ मृग॒युभ्यः॑ श्व॒निभ्य॑श्च वो॒ नमो॒ नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमः॑ ॥ 4 ॥
नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च॒ नमः॑ कप॒र्धिने॑ च॒ व्यु॑प्तकेशाय च॒ नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरि॒शाय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च॒ नमो॓ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒ंवृध्व॑ने च॒ नमो॒ अग्रि॑याय च प्रथ॒माय॑ च॒ नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नमः॒ शीघ्रि॑याय च॒ शीभ्या॑य च॒ नम॑ ऊ॒र्म्या॑य चावस्व॒न्या॑य च॒ नमः॑ स्त्रोत॒स्या॑य च॒ द्वीप्या॑य च ॥ 5 ॥
नमो॓ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॑य च॒ बुध्नि॑याय च॒ नमः॑ सो॒भ्या॑य च प्रतिस॒र्या॑य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नम॑ उर्व॒र्या॑य च॒ खल्या॑य च॒ नमः॒ श्लोक्या॑य चा‌உवसा॒न्या॑य च॒ नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नमः॒ शूरा॑य चावभिन्द॒ते च॒ नमो॑ व॒र्मिणे॑ च वरू॒धिने॑ च॒ नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमः॑ श्रु॒ताय॑ च श्रुतसे॑नाय॒ च ॥ 6 ॥
नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च॒ नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ दू॒ताय॑ च प्रहि॑ताय च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्-ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च॒ नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॑ का॒ट्या॑य च नी॒प्या॑य च॒ नमः॒ सूद्या॑य च सर॒स्या॑य च॒ नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च॒ नमः॒ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च॒ नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒ नम ई॒ध्रिया॑य चात॒प्या॑य च॒ नमो॒ वात्या॑य च॒ रेष्मि॑याय च॒ नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ॥ 7 ॥
नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒ नमः॑ श॒ङ्गाय॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॒ नम॑श्श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमः॑ पा॒र्या॑य चावा॒र्या॑य च॒ नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॑ आता॒र्या॑य चाला॒द्या॑य च॒ नमः॒ शष्प्या॑य च॒ फेन्या॑य च॒ नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च ॥ 8 ॥
नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च॒ नमः॑ किग्ंशि॒लाय॑ च॒ क्षय॑णाय च॒ नमः॑ कप॒र्दिने॑ च॒ पुल॒स्तये॑ च॒ नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒ नम॒स्-तल्प्या॑य च॒ गेह्या॑य च॒ नमः॑ का॒ट्या॑य च गह्वरे॒ष्ठाय॑ च॒ नमो॓ हृद॒य्या॑य च निवे॒ष्प्या॑य च॒ नमः॑ पाग्ं स॒व्या॑य च रज॒स्या॑य च॒ नमः॒ शुष्क्या॑य च हरि॒त्या॑य च॒ नमो॒ लोप्या॑य चोल॒प्या॑य च॒ नम॑ ऊ॒र्म्या॑य च सू॒र्म्या॑य च॒ नमः॑ प॒र्ण्याय च पर्णश॒द्या॑य च॒ नमो॑‌உपगु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आख्खिद॒ते च॒ प्रख्खिद॒ते च॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ग्ं॒ हृद॑येभ्यो॒ नमो॑ विक्षीण॒केभ्यो॒ नमो॑ विचिन्व॒त्-केभ्यो॒ नम॑ आनिर् ह॒तेभ्यो॒ नम॑ आमीव॒त्-केभ्यः॑ ॥ 9 ॥
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्-नील॑लोहित । ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा भेर्मा‌உरो॒ मो ए॑षां॒ किञ्च॒नाम॑मत् । या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाह॑भेषजी । शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॓ ॥ इ॒माग्ं रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॓ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तिम् । यथा॑ नः॒ शमस॑द् द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्नना॑तुरम् । मृ॒डा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते । यच्छं च॒ योश्च॒ मनु॑राय॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ । मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑‌உवधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः । मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो‌உव॑धीर्-ह॒विष्म॑न्तो॒ नम॑सा विधेम ते । आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय सु॒म्-नम॒स्मे ते॑ अस्तु । रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यथा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्हा॓ः । स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गन्न भी॒ममु॑पह॒न्तुमु॒ग्रम् । मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यन्ते॑ अ॒स्मन्निव॑पन्तु॒ सेना॓ः । परि॑णो रु॒द्रस्य॑ हे॒तिर्-वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒ति र॑घा॒योः । अव॑ स्थि॒रा म॒घव॑द्-भ्यस्-तनुष्व मीढ्-व॑स्तो॒काय॒ तन॑याय मृडय । मीढु॑ष्टम॒ शिव॑मत शि॒वो नः॑ सु॒मना॑ भव । प॒र॒मे वृ॒क्ष आयु॑धन्नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि । विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्रग्ं॑ हे॒तयो॒न्यम॒स्मन्-निव॒पन्तु ताः । स॒हस्रा॑णि सहस्र॒धा बा॑हु॒वोस्तव॑ हे॒तयः॑ । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥ 10 ॥
स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या॓म् । तेषाग्ं॑ सहस्रयोज॒ने‌உव॒धन्वा॑नि तन्मसि । अ॒स्मिन्-म॑ह॒त्-य॑र्ण॒वे॓‌உन्तरि॑क्षे भ॒वा अधि॑ । नील॑ग्रीवाः शिति॒कण्ठा॓ः श॒र्वा अ॒धः, क्ष॑माच॒राः । नील॑ग्रीवाः शिति॒कण्ठा॒ दिवग्ं॑ रु॒द्रा उप॑श्रिताः । ये वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । ये भू॒ताना॒म्-अधि॑पतयो विशि॒खासः॑ कप॒र्दि॑नः । ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑ । ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा॑ य॒व्युधः॑ । ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑ । य ए॒ताव॑न्तश्च॒ भूयाग्ं॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषाग्ं॑ सहस्रयोज॒ने‌உव॒धन्वा॑नि तन्मसि । नमो॑ रु॒ध्रेभ्यो॒ ये पृ॑थि॒व्यां ये॓‌உन्तरि॑क्षे ये दि॒वि येषा॒मन्नं॒ वातो॑ व॒र्-ष॒मिष॑व॒स्-तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्-दशो-दी॑ची॒र्-दशो॒र्ध्वास्-तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि ॥ 11 ॥
त्र्यं॑बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्-मृत्यो॑र्-मुक्षीय॒ मा‌உमृता॓त् । यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना वि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु । तमु॑ ष्टु॒हि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ । यक्ष्वा॓म॒हे सौ॓मन॒साय॑ रु॒द्रं नमो॓भिर्-दे॒वमसु॑रं दुवस्य । अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः । अ॒यं मे॓ वि॒श्वभे॓षजो॒‌உयग्ं शि॒वाभि॑मर्शनः । ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे । तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे । मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॓ । प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः । तेनान्नेना॓प्याय॒स्व ॥
ॐ नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥
सदाशि॒वोम् ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑
3 Rudram Chamkam-

ॐ अग्ना॑विष्णो स॒जोष॑से॒माव॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्-वाजे॑भिराग॑तम् । वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे॒ श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मे‌உपा॒नश्च॑ मे व्या॒नश्च॒ मे‌உसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मे‌உङ्गा॑नि च मे॒‌உस्थानि॑ च मे॒ परूग्ं॑षि च मे॒ शरी॑राणि च मे ॥ 1 ॥
जैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मे‌உम॑श्च॒ मे‌உम्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒ वश॑श्च मे॒ त्विषि॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भूतं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सु॒पथं च म ऋ॒द्धं च म ऋद्धिश्च मे क्लु॒प्तं च॑ मे॒ क्लुप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे ॥ 2 ॥
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मे‌உनुका॒मश्च॑ मे॒ काम॑श्च मे सौमनस॒श्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे स॒ंविच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒‌உमृतं॑ च मे‌உय॒क्ष्मं च॒ मे‌உना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मे‌உनमि॒त्रं च॒ मे‌உभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे॒ सु॒दिनं॑ च मे ॥ 3 ॥
ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मे र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च मे॒ पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे पू॒र्णं च॑ मे पू॒र्णत॑रं च॒ मे‌உक्षि॑तिश्च मे॒ कूय॑वाश्च॒ मे‌உन्नं॑ च॒ मे‌உक्षु॑च्च मे व्री॒हय॑श्च मे॒ यवा॓श्च मे॒ माषा॓श्च मे॒ तिला॓श्च मे मु॒द्गाश्च॑ मे ख॒ल्वा॓श्च मे गो॒धूमा॓श्च मे म॒सुरा॓श्च मे प्रि॒यङ्ग॑वश्च॒ मे‌உण॑वश्च मे श्या॒माका॓श्च मे नी॒वारा॓श्च मे ॥ 4 ॥
अश्मा च॑ मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्-पत॑यश्च मे॒ हिर॑ण्यं च॒ मे‌உय॑श्च मे॒ सीसं॑ च॒ मे त्रपु॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे‌உग्निश्च॑ म आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्णप॒च्यं च॑ मे‌உकृष्णपच्यं च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मे‌உर्थ॑श्च म॒ एम॑श्च म इति॑श्च मे॒ गति॑श्च मे ॥ 5 ॥
अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे॒ त्वष्ठा॑ च म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ विष्णु॑श्च म॒ इन्द्र॑श्च मे‌உश्विनौ॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे पृथि॒वी च॑ म॒ इन्द्र॑श्च मे‌உन्तरि॑क्षं च म॒ इन्द्र॑श्च मे द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे मू॒र्धा च॑ म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ॥ 6 ॥
अ॒ग्ं॒शुश्च॑ मे र॒श्मिश्च॒ मे‌உदा॓भ्यश्च॒ मे‌உधि॑पतिश्च म उपा॒ग्ं॒शुश्च॑ मे‌உन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ मे‌உतिग्रा॒ह्या॓श्च म ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे मरुत्व॒तीया॓श्च मे माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे ॥ 7 ॥
इ॒ध्मश्च॑ मे ब॒र्हिश्च॑ मे॒ वेदि॑श्च मे॒ दिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म उपर॒वाश्च॑ मे‌உधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च म॒ आग्नी॓ध्रं च मे हवि॒र्धानं॑ च मे गृ॒हाश्च॑ मे॒ सद॑श्च मे पुरो॒डाशा॓श्च मे पच॒ताश्च॑ मे‌உवभृथश्च॑ मे स्वगाका॒रश्च॑ मे ॥ 8 ॥
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒‌உर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मे‌உश्वमे॒धश्च॑ मे पृथि॒वी च॒ मे‌உदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒मृक्च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे दी॒क्षा च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे व्र॒तं च॑ मे‌உहोरा॒त्रयो॓र्-दृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॒ मे य॒ज्ञेन॑ कल्पेताम् ॥ 9 ॥
गर्भा॓श्च मे व॒त्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वीच॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे वे॒हच्च॑ मे‌உन॒ड्वां च मे धे॒नुश्च॑ म॒ आयु॑र्-य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पताम्-अपा॒नो य॒ज्ञेन॑ कल्पतां॒ व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्-य॒ज्ञेन॑ कल्पता॒ग्॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒ वाग्-य॒ज्ञेन॑ कल्पताम्-आ॒त्मा य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥ 10 ॥
एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒ एका॑दश च मे॒ त्रयो॒दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑विग्ंशतिश्च मे॒ त्रयो॑विग्ंशतिश्च मे॒ पञ्च॑विग्ंशतिश्च मे स॒प्त विग्ं॑शतिश्च मे॒ नव॑विग्ंशतिश्च म॒ एक॑त्रिग्ंशच्च मे॒ त्रय॑स्त्रिग्ंशच्च मे॒ चत॑स्-रश्च मे॒‌உष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे विग्ंश॒तिश्च॑ मे॒ चतु॑र्विग्ंशतिश्च मे॒‌உष्टाविग्ं॑शतिश्च मे॒ द्वात्रिग्ं॑शच्च मे॒ षट्-त्रिग्ं॑शच्च मे चत्वारि॒ग्॒ंशच्च॑ मे॒ चतु॑श्-चत्वारिग्ंशच्च मे‌உष्टाच॑त्वारिग्ंशच्च मे॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्नि॑यश्-चान्त्याय॒नश्-चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्-चाधि॑पतिश्च ॥ 11 ॥
ॐ इडा॑ देव॒हूर्-मनु॑र्-यज्ञ॒नीर्-बृह॒स्पति॑रुक्थाम॒दानि॑ शग्ंसिष॒द्-विश्वे॑-दे॒वाः सू॓क्त॒वाचः॒ पृथि॑विमात॒र्मा मा॑ हिग्ंसी॒र्-म॒धु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॒मुद्यासग्ंशुश्रूषे॒ण्या॓म् मनु॒ष्ये॓भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरो‌உनु॑मदन्तु ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
4. Purush Suktam-
ॐ तच्चं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी॓ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे॓ । शं चतु॑ष्पदे ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥
पुरु॑ष ए॒वेदग्ं सर्वम्॓ । यद्भू॒तं यच्च॒ भव्यम्॓ ।
उ॒तामृ॑त॒त्व स्येशा॑नः । य॒दन्ने॑नाति॒रोह॑ति ॥
ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्॑‍श्च॒ पूरु॑षः ।
पादो॓‌உस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो॓‌உस्ये॒हा‌உ‌உभ॑वा॒त्पुनः॑ ।
ततो॒ विष्व॒ण्-व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ॥
तस्मा॓द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत । प॒श्चाद्-भूमि॒मथो॑ पु॒रः ॥
यत्पुरु॑षेण ह॒विषा॓ । दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्॓ । ग्री॒ष्म इ॒ध्मश्श॒रध्ध॒विः ॥
स॒प्तास्या॑सन्-परि॒धयः॑ । त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्-पुरु॑षं प॒शुम् ॥
तं य॒ज्ञं ब॒र्॒हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ॥
तस्मा॓द्य॒ज्ञात्-स॑र्व॒हुतः॑ । सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्-स्ताग्‍श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्-ग्रा॒म्याश्च॒ ये ॥
तस्मा॓द्य॒ज्ञात्स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा॓त् । यजु॒स्तस्मा॑दजायत ॥
तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा॓त् । तस्मा॓ज्जा॒ता अ॑जा॒वयः॑ ॥
यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒था व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ॥
ब्रा॒ह्म॒णो॓‌உस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याग्ं शू॒द्रो अ॑जायतः ॥
च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षोः॒ सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ॥
नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॓त् । तथा॑ लो॒काग्म् अक॑ल्पयन् ॥
वेदा॒हमे॑तं पुरु॑षं म॒हान्तम्॓ । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वा‌உभि॒वद॒न्॒, यदा‌உ‌உस्ते॓ ॥
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्-प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ॥
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥
अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसा॓च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे॓ ॥
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्॓ । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒ते‌உय॑नाय ॥
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ।
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिम्॓ । मरी॑चीनां प॒दमिच्छन्ति वे॒धसः॑ ॥
यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां॓ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥
रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन् ।
यस्त्वै॒वं ब्रा॓ह्म॒णो वि॒द्यात् । तस्य॒ दे॒वा अस॒न् वशे॓ ॥
ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ॓ । अ॒हो॒रा॒त्रे पा॒र्श्वे ।
नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्तम्॓ ।
इ॒ष्टं म॑निषाण । अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ॥
तच्चं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी॓ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे॓ । शं चतु॑ष्पदे ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Monday, 26 August 2013

Rudra Abhishekam ( complete with procedure and meaning)

Rudra Abhishekam with all mantras and meanings-

Meaning-Rudra is another form of Shiva and rudra abhishek is an ancient chanting which was downloaded from the Aakasha (space).When the ancient Rishis sages sat in meditation ,they noted this on the basis of Shruti.  Rudra abhishek creates very positive vibrations and so remove all sins,and all astrological problems.
Rudra is form of Shiva ,and  rudra abhishek is done to soothe the Rudra (or angry form of Shiva).Shri Rudram is also known as Sri Rudraprasna ,Satarudriya and Rudradhyaya,taken from Krishna samhita Yajurveda.
It has two texts from Tatirriya samhita Chapter 5 is called Namkam due to repeated word Namo namo in it.Basically the Namkam part describes the name of Rudra and and devotee ask this form of Rudra for forgiveness of sins ,and several times devotee bow to all form of Rudra.
Chapter 7 is called Chamkam due to repetition of Chame Chame and in this devotee asks for fulfillment of several wishes.In sanskrit CHA means And and ME means to Me ,so chame chame means bless me with this and with this and with this ...like that.
Both Namkam and Chamkam has 11 anvakas.The very important Maha Mrityunjay Mantra is taken from Namkam only.

Abhisheka Material- As per the requirement of devotee abhisheka of lord is done with different materail-
1.Water-Normal water,Ganges water,Sea water,Coconut water-for Moksha and spiritual growth,for marriage issues

2.Milk-to beget Son

3.Sugarcane Juice-for any health issue

4.Honey-to get wealth

5.Curd-health

7. Sugar-all round happiness

8.Ghee-Financial gain n prosperity

9.sandalwood paste-Son's prosperity

Any monday,on Pradosh tithi,all shivratri and Mahashivratri,whole shravan month are very auspicious to do this abhisheka ,or else on any day this can be done,in North you might have seen all devotee when go to shiva temple they pour water on Shiva and in this way they get punya.
Incurable diseases are cured by Abhisheka. Abhisheka bestows health, wealth, prosperity, progeny, etc. Abhisheka on Monday is most auspicious.

Vidhi-First thing i want to tell all devotee that these days several offer available on net like different pandits and website claim that they will do abhisheka on your name ,please DO NOT go for that,it is not possible that you book something online and you will get its benefit,when you yourself do abhisheka pandits recite mantra then only you will get the vibration and chemical of your body changes and so you get benefited.
So choose any good pandit who can recite Namkam Chamkam Purush Suktam and you can do it at temple or at home but at home you need to care all material which comes after touching Shiva so better to do it in temple.In next post i am giving mantras and vidhi in detail.
May lord Shiva bless all !! 

Friday, 23 August 2013

Mukhya Grah and Isht Devta ( as explained by Astro Uncle)

Mukhya Grah & Isht Devta
There are two types of need of every human being 1.For life related issues (e.g. Job,Marriage,Career,Progeny issues,wealth,Health etc) 2. For spiritual uplift i.e. growth of soul
For these two purpose every individual has individual deity so that results can be achieved effectively.No doubt God has given us this tools so that not only we can know what is hidden but can also rectify that.

If anybody interested to know their Mukhya Grah and Ihst Devta plz write me,i will reply all given there DOB ,time and place.
May Shiva bless all !!  

Thursday, 25 July 2013

Bilvashtkam with meaning

This is for all devotee,who offer there prayers to lord Shiva in the form of Bilva patra. As we all know offering Bilva patra is very auspicious in general and much more specially in Shravan month.According to religious texts,poison came from churning of ocean and shiva came forward to drink poison to save all,it happened in shravan month.It is believed that lord Indra wanted lord Shiva's body temperature to reduced and hence it rained heavily.This calmed down lord Shiva and since then the Shravan month is celebrated to please the lord shiva. Water and other sacred liquids are poured to worship and to get blessings in different problems and for spiritual growth.
Bilvashtkam is recited when Bilva patra is offered to Shiva otherwise also one can recite bilvashtkam and lingashtkam to get Shiva's blessings.In bilvashtkam it is explained that how offering one Bilva patra is lot more beneficial that the other punya.

Bilvashtkam with meaning-There are two version of Bilvashtkam one from Shiv Purana i am giving here and the other is by Aadi Shankaracharya slightly different  (well but both shows the importance of offering Bilva patra to lord Shiva).

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं
त्रिजन्म पापसंहारम् एकबिल्वं शिवार्पणं

I offer one leaf of Bilva to Lord Shiva,
Which has three petals,Which constituted of three gunas {(Satva,Raja and Tamasa),These three quality constitute Maya,and Maya is the creation power of Ishwara ,these three quality becomes causes of creation },which are like the three eyes of Shiva,{(Sun,Moon and Agni) the third eye stands for his infinite wisdom,so he known as Trayambak ,Trilochan} which is like the three types of weapons,{Shiva has all category of weapon Mace,trident,and bow called Pinaka},Shiva with weapon shows that anytime he can come to rescue his devotee from any trouble, and which destroys accumulated sins of past three births.

So offering one cluster of Bilva leaf to Shiva has great merit.

[This reminds what lord Krishna said in Gita ,when one with pure mind offer me a leaf,a flower,or anything ,I accept.] 

त्रिशाखैः बिल्वपत्रैश्च अच्चिद्रैः कोमलैः शुभैः
तवपूजां करिष्यामि एकबिल्वं शिवार्पणं

I offer puja to lord Shiva with bunch of Bilva leaves that are auspicious ,soft and tender ,have three leaves ,which are not damaged or defective in any manner.

कोटि कन्या महादानं तिलपर्वत कोटयः
काञ्चनं क्षीलदानेन एकबिल्वं शिवार्पणं

Donation of millions of girls for marriage,and donation of mountains of sesame seeds,and donation of lots of gold  is all equivalent to offering one leaf of Bilva patra to Shiva.

काशीक्षेत्र निवासं च कालभैरव दर्शनं
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणं

if one stays at the holy city of Kasi, then has darsan of the Lord Kalabhairava there, visits Prayag and has darsan of Lord Madhava there and also offers worship to Lord Shiva with bilva leaf he is assured of Lord’s grace.


इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः
नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणं

रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तधा
तटाकानिच सन्धानम् एकबिल्वं शिवार्पणं

अखण्ड बिल्वपत्रं च आयुतं शिवपूजनं
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणं

Offering Bilva patra to lord Shiva which is unbroken is equal to thousands of naam smaran

उमया सहदेवेश नन्दि वाहनमेव च
भस्मलेपन सर्वाङ्गम् एकबिल्वं शिवार्पणं

worshiping maa Parvati and Nandi along with Bhasma which is very dear to lord is equal to offering one Bilva patra to lord.


सालग्रामेषु विप्राणां तटाकं दशकूपयोः
यज्नकोटि सहस्रस्च एकबिल्वं शिवार्पणं
If one gifts a sacred saligrama piece to a brahmin who has acquired the knowledge of Self, he earns great merit equal to that of performing a sevral Yagna,but still offering one Bilva Patra is equal to all that punya.

दन्ति कोटि सहस्रेषु अश्वमेध शतक्रतौ
कोटिकन्या महादानम् एकबिल्वं शिवार्पणं

Gifting of thousands of elephants or performing great sacrifices like the Vajapeya,or ashwamedha Yagna or gifting of thousands of young unmarried girls in marriage cannot be compared with the offering of a cluster of bilva leaves to Lord Shiva.

बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनं
अघोर पापसंहारम् एकबिल्वं शिवार्पणं

Seeing or looking at Bilva tree gives Punya and on touching it all sins get destroyed. Offering one Bilva patra destroy the most horrible or terrific sins.

सहस्रवेद पाटेषु ब्रह्मस्तापन मुच्यते
अनेकव्रत कोटीनाम् एकबिल्वं शिवार्पणं

Reading all veda several times and performing several fasting is equal to Bilva patra pooja.

अन्नदान सहस्रेषु सहस्रोप नयनं तधा
अनेक जन्मपापानि एकबिल्वं शिवार्पणं

 Food donation has considered the best donation but more than that one Bilva patra to lord Shiva destroy all sins.


बिल्वस्तोत्रमिदं पुण्यं यः पठेश्शिव सन्निधौ
शिवलोकमवाप्नोति एकबिल्वं शिवार्पणं
This says that one who reads these verses in the proximity of the Lord, either in a temple or in one’s puja room will get absolved of the sins. It goes without saying that the reading should be done with faith and devotion.whoever reads these sacred verses of
Bilvashtakam in the proximity of Lord Shiva will be freed of all sins and attain the abode of Lord Shiva.

Also, it is necessary that one should not doubt  whether mere recitation can absolve one of the sins? It is to be understood that these verses are in vogue for a long time and should have been composed by a saint, a mahatma who had done the worship of Shiva with bilva leaves and actually enjoyed the results.
So he is putting his experience in these verses for the benefit of
others and the future generations. We may see similar statements
about the benefits in all stotras. On one hand they induce one to
read the verses and in addition they plant the seed of devotion in
the reader’s mind and thus make one the recipient of Lord’s grace in
due course of time.

Sunday, 7 July 2013

Navgrah Stotram in Hindi ( mantras of 9 planets ) with meaning

Navgrah stotram is very beneficial if native has some obstacles in success and if not sure which planets to worship,one can easily learn and recite daily .(several links are available on You Tube for correct pronunciation).

नवग्रह ध्यानश्लोकम्
आदित्याय च सोमाय मङ्गलाय बुधाय च ।
गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ॥

रविः
जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम् ।
तमोरियं सर्व पापघ्नं प्रणतोस्मि दिवाकरम् ॥

I bow to Surya, who shines like JapaKusuma flower, who is son of Kasyapa, who is resplendent, who is enemy of darkness n who destroys all sins.

चन्द्रः
दथिशज्ञ तुषाराभं क्षीरार्णव समुद्भवम् ।
नमामि शशिनं सोमं शम्भोर्-मकुट भूषणम् ॥
I bow to Soma, whose colour is white like yogurt, conch n snow; who rose from Ksheasagar and  who adorns the head of Lord Shiva.

कुजः
धरणी गर्भ सम्भूतं विद्युत्कान्ति समप्रभम् ।
कुमारं शक्ति हस्तं तं मङ्गलं प्रणमाम्यहम् ॥
I bow to Mangala, who is born of earth, who shines like lightning, who is called Kumara, n who holds in his hand weapon called Shakti.

बुधः
प्रियङ्गु कलिकाश्यामं रूपेणा प्रतिमं बुधम् ।
सौम्यं सत्व गुणोपेतं तं बुधं प्रणमाम्यहम् ॥
I bow to Budha who has a dark blue complexion like the bud of creeper called Priyang, who is beautiful; who is wise, who is the son of Soma; n who is of a very charitable n noble.

गुरुः
देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् ।
बुद्धिमन्तं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥

I bow to Guru, who is Guru of Devatas n Rishi, who is resplendent like gold, who is of the form of wisdom, n who is the lord of the three worlds.
शुक्रः
हिमकुन्द मृणालाभं दैत्यानं परमं गुरुम् ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ॥

I bow to the Sukra, who shines like snow, Kundflower n Mrinal-flower,who is Guru of Asuras n who is master-teacher of all Sastras.
शनिः
नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् ।
छाया मार्ताण्ड सम्भूतं तं नमामि शनैश्चरम् ॥

I bow to Shani,whose complexion is like shining dark-blue collyrium,who is son of Surya, who is elder brother of Yama n who is born of Chaya.
राहुः
अर्थकायं महावीरं चन्द्रादित्य विमर्धनम् ।
सिंहिका गर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ॥

I bow to Rahu,who has a half-body, who is of extraordinary strength, who is oppressor of moon n sun, n who is born of simhika.

केतुः
फलास पुष्प सङ्काशं तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥
I bow to Ketu,who shines like Palas-flower, who is foremost
among star n planet, who is Raudra n whose form is fierce and fearful.



फलश्रुतिः
इति व्यास मुखोद्गीतं यः पठेत्सु समाहितः ।
दिवा वा यदि वा रात्रौ विघ्न शान्तिर्भविष्यति ॥

नर नारी नृपाणां च भवे द्दुस्वप्ननाशनम् ।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टि वर्धनम् ॥

ग्रह नक्षत्रजाः पीडा स्तस्कराग्नि समुद्भवाः ।
तास्सर्वाः प्रशमं यान्ति व्यासो ब्रूते नसंशयः ॥ 

Om Sai Ram

Saturday, 29 June 2013

Mnagal Dosh and remedy for Mangal (Mars)

Native who has mars in birth chart in 1st,4th,7th,8th and 12th house is called Manglik ,and to less or more extent this position of mars affects natives married life.
First we will understand the nature of mars,it is Bhumi Putra and also called Mangal,Angaraka or Kuja.,It is a fiery planet,and its impact on native brings worrier traits,courage and bravery,athelete, lovers of weapons, guns, and explosives; commanders; generals; soldiers; and policeman. It also gives them great technical and mechanical abilities but its malefic impact makes natives short-tempered, argumentative,brings blood disorder,surgery ,and affects relationships.

When Mars is in first house it has 7th aspect on 7th house that is house of partner i.e. Life partner,and 4th aspect on sukh sthana ,when it is in 4th house again it has fourth aspects on 7th house so in this way it makes native argumentative with life partner and spoils married life,its position in 8th house can have effect on longavity and in 12th house too (seen for comfort from married life ) it may decay marital bliss.

Malefic Mars-Native has bad relationship with siblings specially with elder brother and sister,a malefic mars gives poor immune system ,eating outside ot travelling may easily affect the health if Mars is weak.It gives lazyness if native has weak mars (as mars is energy ),blood pressure and weak bones also indicates malafic mars.Mars +moon combination in chart ,may give Schizophrenia if have malefic aspects.

Benefic Mars-Natives benefited with land (as it is Bhumi Putra),technical education ,bliss from marriage,{and since Mars represents Red colour the Kumkum (bindi) in Indian traditions are associated with Mangal (husband)},motivation,passion,vitality,(since mars represents blood and if mars is in Lagna the native will have everyouthness and looks quite younger than age).

Remedies-Here are very simple remedies to make mars strong and benefic-

1.Worshipping Hanuman ji and reciting Hanuman Chalisa (as Hanuman ji is symbol of courage,power,determination).

2.For females applying red kumkum and bindi(as menses brings blood loss and seen as loss of mangal).

3.Aviod red meat n red chillies as it makes mars malefic.

4.Avoid urinating in open lands, it is seen as insult of earth (mother of Mars).

5.Donate jaggery on tuesday or any red /orange sweet (boondi) on tuesday.

6.Donate Bricks (red) for construction of temple.

7. Worship lord Kartikeya.

8.Do any physical activity like Yoga ,Gym,or any sport.Avoid sleeping in day time.

Om Sai Ram

Friday, 7 June 2013

Viparita Raj Yoga (VRY)

There are many people who utilizes the challenges and not only overcome with problems but they convert it into positive power and get benefited.You all must have heard this term Viparita Raj Yoga ,on one side the word interpreted as Rajyoga on other side its Viparita,so exactly i will try to explain how this particular Rajyoga is formed in ones Chart.
The native who has this yoga certaily achieve heights but after facing certain difficulties.

Viparita word has several meanings like opposite,false or inverted, However for our purposes, Viparita means "just the opposite" or "contrary to what is expected".
There are three types of VRY-

"Phaladeepika chapter 6 sloka 63.-If the 6th house or its lord is associated with or aspected by malefics or the lord of the 6th house occupies an evil house , Harsha Yoga is formed.One born in such a Yoga is endowed with happiness, enjoyment, good luck and a stout body. He over powers his enemies easily and is afraid to commit sinful acts. He is a friend of illustrious and prominent people. He is blessed with wealth, splendor, fame,friends and sons."

The evil houses in astrology are 6th,8th and 12th.So if the lord of the 6th house occupies 8th or 12th house or if 6th has association or aspected by the planets which owns 8th n 12th house this VRY is formed.

"Phaladeepika chapter 6 Sloka 65.- If the lord of the 8th house is posited in the 6th ,8th or the 12th house it causes Sarla Yoga. The person born in this Yoga will enjoy longevity, be resolute, fearless, prosperous,, respected and endowed with learning, children and wealth. He will be successful in all his enterprises, overcome his foes, be pure of mind and widely celebrated."

So it says that if the lord of 8th house occupies 6th or 12th house or if 8th has association or aspected by planets which owns 6th or 12th house this VRY formed.

"Phaladeepika chapter 6 sloka 69.- If the lord of thee 12th house occupies any evil house and is associated with or aspected by malefics Vimla Yoga is formed.The effects of a person's birth in such a Yoga are that he spends much less than what he earns and saves. He is good to everybody i.e. his actions are identical with the thinking of others. He is ever happy and independent and pursues a respectable profession or occupation and is well known for his merits."

RULES-
Lord of 6,8 or 12 must occupy bhava-6,bhava-8 or bhava-12 or aspected by one of these lords.

The 6th lord cannot also be the lagna lord, the 5th lord or the 9th lord,
The 8th lord cannot also be the lagna lord, the 5th lord or the 9th lord,
The 12th lord cannot also be the lagna lord, the 5th lord or the 9th lord,
In the dushthana where the Viparita Raja Yoga occurs (it can occur in 6,8,or 12 ) no temporal benefic can be present in the dushthana where the yoga is set to occur ( that is the lagna lord ,the 5th ,the 9th,and the 10th )

important: VRY does not apply if the lagna lord is in the 6th, the lagna lord is in the 8th, or if the lagna lord is in the 12th.

Om Sai Ram